________________
!
॥ श्री गणेशायनमः ॥
स्कन्द पुराणस्थब्रह्मखण्डेतृतीय चातुर्मास्यमाहात्म्यम्
प्रथमोऽध्यायः
चातुर्मास्यस्नानमहत्त्ववर्णनम्
नारद उवाच
देवदेव महाभाग व्रतानि सुबहून्यपि । श्रुतानि त्वन्मुखाद् ब्रह्मन्नतृप्तिमधिगच्छति अधुना श्रोतुमिच्छामि चातुर्मास्यव्रतं शुभम् ॥ २ ॥
ब्रह्मोवाच
श्रृणु देवमुने! मत्तचातुर्मास्यव्रतं शुभम् । यच्छ्रुत्वाभारते खण्डे नृणांमुक्तिर्नदुर्लभा मुक्तिप्रदोऽयं भगवान् संसारोत्तारकारणम् । यस्यस्सरणमात्रेण सर्वपापैः प्रमुच्यते मानुष्यं दुर्लभं लोके तत्राऽपिच कुलीनता । तत्रापि सदयत्वञ्च तत्र सत्सङ्गमः शुभः सत्सङ्गमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि च । चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः ॥ ६ ॥ चातुर्मास्येऽवती यस्तु तस्य पुण्यं निरर्थकम् |
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च ॥ ७ ॥
विष्णुमाश्रित्य तिष्ठन्तिचातुर्मास्येसमागते । सुपुष्टेनापिदेहेन जीवितन्तस्यशोभनम्